चित्रपटन्यायः

विकिसूक्तिः तः

चित्ररचनायाः पूर्वं कागदस्य वस्त्रस्य वा उपरि श्वेतवर्णेन लिम्पन्ति (श्वेतवर्णस्य लेपनं कुर्वन्ति । तदनन्तरं विशिष्टरेखाः रचयित्वा चित्रस्य स्वरुपं प्राप्नुवन्ति तत्पश्चादेव विशिष्टवर्णैः चित्रस्य अलङ्करणं कुर्वन्ति । एवं क्रमेण चित्ररचना पूर्णा भवति ।

एवमेव परमेश्वरः आदौ चिदाकारः भवति । तदनन्तरं सृष्टिरचनां कृत्वा तदन्तर्यामी भूत्वा ततः सूत्रात्मा भवति । तेन च अन्ते विराड्रुपो भवति । (सा. २८५)

"https://sa.wikiquote.org/w/index.php?title=चित्रपटन्यायः&oldid=9917" इत्यस्माद् प्रतिप्राप्तम्