चित्राङ्गनान्यायः

विकिसूक्तिः तः

अङ्गना चित्रे पुरतः भवति चेदपि चुम्बनालिङ्गनादिकं दत्त्वा आनन्दयितुम् असमर्था भवति । तथैव निरहङ्कारवृत्त्या वर्तमानस्य तत्त्वज्ञस्य कर्माणि चित्राङ्नान्यायेन फलदायीनि न भवन्ति । एवं कृतकर्मणः फलं न भवतीति दर्शयितुम् अस्य प्रयोगो भवति । (सा. २९१)

तुल्याः –चित्रामृतन्यायः, चित्रानलन्यायः इत्यादयः ।

"https://sa.wikiquote.org/w/index.php?title=चित्राङ्गनान्यायः&oldid=9919" इत्यस्माद् प्रतिप्राप्तम्