चौरापराधात् माण्डाव्यनिग्रहन्यायः

विकिसूक्तिः तः

एकदा केचन चौराः राजभवने चौर्य कृतवन्तः । ते यदा धावित्वा पलायनं कर्तुम् आरभन्त तदा राजसेवकाः तेषाम् अनुसरणं कृतवन्तः । धावन्तः चौराः माण्डव्यनामकस्य ऋषेः समीपे धनकोषं त्यक्त्वा अदृश्याः अभवन् । राजसेवकाः तत्र आगत्य माण्डव्यमहर्षिम् एव चौरं मत्वा तं बद्ध्वा राजसमीपं नीतवन्तः । राज्ञा तु शूलारोपणदण्डः दत्तः । निरपराधेन अपि माण्डव्यमहर्षिणा दण्डः भोक्तव्यः अभवत् । एवम् अकृतस्यापि कर्मणः फलं भोक्तव्यं भवति इति द्योतयितुम् अस्य न्यायस्य प्रयोगो भवति ।

यथा – सर्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शने –

भेदवादिनं प्रति इमानि दूषणानि उद्घुष्यन्ते किं वा धार्मिभेदवादिनं प्रति ? प्रथमे चौरापराधात् माण्डव्यनिग्रहन्यायापातः ।(पृष्ठे ७३) सा. १२३