जपास्फटिकन्यायः

विकिसूक्तिः तः

स्फटिकस्य समीपे यादृशं पदार्थं स्थापयामः स्फटिकस्य स एव वर्ण इव भाति । जपापुष्पस्य स्थापनेन स्फटिकस्य तद्वर्णप्रतिफलनं भवति । एअं स्वभावम् अपरिवर्त्य औपाधिकरुपेणा अन्येषां गुणधर्मप्रतिबिम्बनं किञ्चित्कालं यावत् करोतित्यर्थे अस्य प्रयोगो भवति ।

आत्मा तावत् कर्ता भोक्ता नास्तीति उपनिषदां मतम् । तथापि आत्मनि कर्तृत्वादिबुद्धिः जपास्फटिकन्यायमेव अनुसरति ।

यथा- यथा स्फटिके जपाकुसुमाश्रिते लौहित्यं विवेकिनां

प्रतीतित एवास्ति न वस्तुतः । एवम् आत्मनि ईश्वराधीने विवेकिनां कर्तृत्वं प्रतीतित एवास्ति न वस्तुतः इति वक्तुं शक्यम् । मधुसूदनसरस्वतीगीताभाष्ये -१८-९

"https://sa.wikiquote.org/w/index.php?title=जपास्फटिकन्यायः&oldid=10060" इत्यस्माद् प्रतिप्राप्तम्