जम्बुकारग्वधन्यायः

विकिसूक्तिः तः

एकः जम्बुकः एकस्य आरग्वधस्य फलानि खादितवान् । तेन तस्य उदरशूलः संजातः । इतः परम् अहं कदापि आरग्वधफलानि न भोक्ष्ये इति तेन जम्बुकेन निश्चयः कृतः । परन्तु उदरपीडा यदा शान्ता तदा पुनः जम्बुकेन तानि फलानि भक्षितानि । एवम् आत्मनिग्रहरहितस्य निश्चयं सूचयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=जम्बुकारग्वधन्यायः&oldid=10061" इत्यस्माद् प्रतिप्राप्तम्