जलचन्द्रन्यायः

विकिसूक्तिः तः

एक एव चन्द्रः स्वयम् अविकारी सन् तेषु तेषु जलाशयेषु भिन्न इव नानारुपः भासते । तथा एक एव भूतात्मा सर्वभूतेषु विविधः इव दृश्यते इति अस्य आशयः । एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ (सा.९७५)

"https://sa.wikiquote.org/w/index.php?title=जलचन्द्रन्यायः&oldid=10062" इत्यस्माद् प्रतिप्राप्तम्