जलतरङ्गन्यायः

विकिसूक्तिः तः

वायोः वेगवशात् जलाशये जलस्य उपरि लहर्यः उत्पद्यन्ते । तेन जले जलं, लहर्यः, फेनः इति विविधं नवीनं च परिवर्तनं जातमिव भाति । तेषु सर्वेषु अपि जलगताः धर्माः एव भवन्ति । रुपस्य परिवर्तने अपि धर्मपरिवर्तनं न भवति । एवं कस्मिन्नपि पदार्थे जातानि परिवर्तनानि मूलद्रव्यापेक्षया भिन्नानि न भवन्तीति अनेन न्यायेन सूच्यते । पश्यन्तु – माधुर्यद्रवशैत्यादिनीरधर्मास्तरङ्गके । अनुपम्याथ तमिष्टे फेनेऽप्यनुगता यथा ॥ (सा. ६३८) अयं श्लोकः वादसुधाकराख्यग्रन्थस्थः सन् लौकिकन्यायसाहस्त्रीग्रन्थे उद्धृतः ।

"https://sa.wikiquote.org/w/index.php?title=जलतरङ्गन्यायः&oldid=10063" इत्यस्माद् प्रतिप्राप्तम्