जामातृशुद्धिन्यायः

विकिसूक्तिः तः

कश्चन गोपालः कपटोपदेशतः राजकन्यकां परिणीतवान् । यथा उपदेशः प्राप्तः तथा सर्वदा सः मौनमेव आश्रित्य तिष्ठति स्म । एकदा तस्य पाण्डित्यं ज्ञातुं राजकन्यका नवलिखितपुस्तकस्य एकस्य शोधनाय तम् उपरुद्धवती । ज्ञानहीनः सः पुस्तकं हस्ते स्थापयित्वा केवलं तस्य पुस्तकस्य अक्षराणि बिन्दुमात्रारहितानि कुर्वन् उपविष्टः । तद् दृष्ट्वा सा कन्या एष नूनमेव गोपालक इति ज्ञातवती । ततः प्रभृति जामातृशुद्धिन्यायः इति अयं प्रसिद्धः जातः इति प्रबन्धचिन्तामणौ विवृतम् ।

"https://sa.wikiquote.org/w/index.php?title=जामातृशुद्धिन्यायः&oldid=10081" इत्यस्माद् प्रतिप्राप्तम्