तस्करकन्दुन्यायः

विकिसूक्तिः तः

एकदा एकः चोरः धावन् एकं पाकगृहं प्रविष्टः । जनाः तम् अनुसृत्य पाकगृहे तं गृहीत्वा पृष्टवन्तः कः त्वम् इति । चोरः ‘अहं पाचकः’ इति कथितवान् । तस्य विषये दयां धृत्वा जनाः तस्मै पाकक्रियामेव दत्तवन्तः । सः वस्तुतः पाचकः नास्ति खलु ? अतः तस्य सम्भ्रमं दृष्ट्वा जनैः ज्ञातं तस्य स्वरूपम् । शीघ्रमेव सः कारागृहं प्रति प्रेषितः । एवं स्वासामर्थ्यस्य अभावे अपि कस्यचिद् विषयस्य सामर्थ्यं वहामीति यः अभिनयति अन्ते सः स्ववञ्चनयैव गृहीतो भवति इति अस्य भावः ।यथा –

अशक्ये विनियुक्तोऽपि कृष्णलाग् श्रपयेदिति ।
सर्वात्मनाऽप्यसौ कुर्वन् कुर्यात् तस्करकन्दुवत् । । सुरेश्वरः
"https://sa.wikiquote.org/w/index.php?title=तस्करकन्दुन्यायः&oldid=14593" इत्यस्माद् प्रतिप्राप्तम्