तिलतण्डुलन्यायः

विकिसूक्तिः तः

तिलानां तण्डुलानां च परस्परं संमिश्रणं भवति चेदपि ते पृथक् कर्तुं शक्याः । ते दुग्ध –जलवत् एकरुपतां न प्राप्नुवन्ति । यदा एकत्र द्वौ अलङ्कारौ स्वम् अस्तित्वम् अपरित्यज्य भवतः तदा संसृष्टिनामकः अलङ्कारः तिलतण्डुलन्यायेन भवति । यथा – लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिः विफलतां गता ॥ मूच्छकटिके १-१४ अस्मिन् श्लोके उपमा – उत्प्रेक्षा – अलङ्कारयोः संसृष्टिरस्ति ।

"https://sa.wikiquote.org/w/index.php?title=तिलतण्डुलन्यायः&oldid=10022" इत्यस्माद् प्रतिप्राप्तम्