दधिक्षीरन्यायः

विकिसूक्तिः तः

दग्धस्य दधिरुपेण रुपान्तरप्राप्तिः एव परिणामः । परन्तु यदा सर्पः रज्जुस्थाने दृश्यते तदा रज्जुः सर्परुपेण न परिणता अयं परिणामः नास्ति । अयम् आभासः एव ।

एवं यथार्थतः रुपपरिवर्तनं परिणाम इति, रुपपरिवर्तनस्य आभास आभास इति च शास्त्रे व्यपदिश्यते । आभासस्य विवर्त इत्यपि नाम । सांख्यमते परिणामवादः अद्वैतवादे च विवर्तवादः सृष्टिविषये स्वीकृतः ।

"https://sa.wikiquote.org/w/index.php?title=दधिक्षीरन्यायः&oldid=10554" इत्यस्माद् प्रतिप्राप्तम्