दामव्यालकटन्यायः

विकिसूक्तिः तः

शंबरनामकः कश्चन राक्षसः स्वमायया दाम- व्याल –कटनामकानां त्रयाणां राक्षसानां निर्माणम् अकरोत् । ते त्रयः अपि केवलमुष्ठिघातेन मेरुपर्वतम् अपि चूर्णीकर्तुं समर्थाः आसन् । परन्तु स्वशक्तेः अज्ञानेन ते मशकरुपेण नीचयोनौ जाताः । अस्यायमर्थः यत् केचन जनाः दैवेन उत्तमजन्म प्राप्य कालक्रमेण अधोगतिं प्राप्नुवन्ति इति । योगवासिष्ठस्य् चतुर्थप्रकरणे आगताम् एतां कथां व्याख्याकारः रघुनन्दनः सुन्दररीत्या विवृतवान् ।

दामव्यालकटन्यायस्तस्मान्मा तेऽस्तु राघव ।

भीमभासदृद्वन्यायो नित्यमस्तु तवानघ ॥ (४-३४-३६)

"https://sa.wikiquote.org/w/index.php?title=दामव्यालकटन्यायः&oldid=10499" इत्यस्माद् प्रतिप्राप्तम्