दुर्जनगर्दभन्यायः

विकिसूक्तिः तः

दुर्जनस्य गर्दभस्य च मध्ये महत् साम्यम् अस्ति । द्वौ अपि उत्तमं पन्थानं मलिनी कुरुतः । द्वौ अपि धनसंचये समर्थौ भूत्वा अपि उन्मत्तौ भवतः । वैशाखमासे द्वावपि स्वेच्छाचारिणौ भवतः । प्रहारान् प्राप्य अपि स्वभावं न त्यजतः । आस्मिन् अर्थे कश्चन श्लोकः विद्यते –

मलिनीकुर्वन् अर्जुनवर्त्म मन्दीभवति राधेयः ।

यदि ताडनादि लभते तथापि तच्छील एव खलः ॥

"https://sa.wikiquote.org/w/index.php?title=दुर्जनगर्दभन्यायः&oldid=10504" इत्यस्माद् प्रतिप्राप्तम्