देवदत्तशौर्यन्यायः

विकिसूक्तिः तः

एकस्मिन् ग्रामे देवदत्तनामकः कश्चन स्थिरवासं करोति स्म । तं सर्वे शूर इति कथयन्ति स्म । परन्तु तस्य एतादृशं यशः ग्रामे मर्यादितं भूत्वा ग्रामान्तरे केनापि ज्ञातमेव न आसीत् । परन्तु मर्यादितं चेदपि यशः तावत् यश एव । एवं मर्यादिताः सन्तः अपि गुणाः सर्वदा स्वं माहात्म्यं न त्यजन्तीति अस्य अर्थः ।

"https://sa.wikiquote.org/w/index.php?title=देवदत्तशौर्यन्यायः&oldid=10521" इत्यस्माद् प्रतिप्राप्तम्