देहलीदीपन्यायः

विकिसूक्तिः तः

देहल्यां स्थापितः दीपः उभयोः पार्श्वयोः अपि प्रकाशकारणं भवति । एवं केषुचिद् वाक्येषु एक एव धर्मः एका क्रिया वा संपूर्ण वाक्यं प्रकाशयति । एकस्थस्यैव समस्तवाक्यदीपनात् ।

यथा –कृपणानां धनं, सर्पफणस्थितं मणिं, सिंहस्य सटां, कुलीनस्त्रियः स्तनञ्च कः स्प्रष्टुं शक्नुयात् ?

अत्र स्पर्शस्य दुष्करत्वं सर्वत्र व्याप्नोति । अतः देहलीदीपन्यायः अत्र प्रवर्तते । अयमेव प्रासाददीपन्यायः ।

यथा जैमिनिसूत्रशावरभाष्ये १२-१-३
यथा प्रदीपस्य वेदिकार्थं निर्मितस्य अर्थसिद्धं मार्गप्रकाशकत्वम् अनिवार्यं तथा....। --- जैमिनीयन्यायमालाविस्तरः १२.१.३

"https://sa.wikiquote.org/w/index.php?title=देहलीदीपन्यायः&oldid=17400" इत्यस्माद् प्रतिप्राप्तम्