नानावृक्षरस्यन्यायः

विकिसूक्तिः तः

अनेकेषां वृक्षाणां रसाः अनेकविधा भवन्ति । सर्वेषामपि एक विध एव रसो न भवति तथा जगति अस्मिन सर्वे जीवाः परस्परम् ईश्वरात् च विलक्षणा एव भवन्ति इति द्वैतवेदान्तिनां मतम् । एवं द्वैतवेदान्ते नानावृक्षरसन्यायेन जीवानां परस्परम् ईश्वरात् च वैलक्षण्यं प्रदर्श्यते ।

यथा पक्षी च सूत्रं च नानावृक्षरसा यथा ।

यथा नद्यः समुद्राश्च शुद्धोदलवणे यथा ॥

चोरापहार्यौच यथा यथा पुंविषया अपि ।

तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ ॥ सर्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शने तुल्यन्यायाः शकुनिसूत्रन्यायः, नदीसमुद्रन्यायः, शुदधोदलवणन्यायः, चौरापहार्यन्यायः ।

"https://sa.wikiquote.org/w/index.php?title=नानावृक्षरस्यन्यायः&oldid=10333" इत्यस्माद् प्रतिप्राप्तम्