फलवत्सहकारन्यायः

विकिसूक्तिः तः

फलबाहुल्येन आम्रवृक्षः अवनतो भवति । तस्य वृक्षस्य घनच्छायायां बहवो जनाः विश्रान्ताः भवन्ति । एवं प्रवासिजनेभ्यः छायया सह मधुरफलानि सुगन्धं च ददाति अयं वृक्षः । एवं यदा कस्याश्चिद् इच्छायाः पूर्त्यै इष्टदेवतायाः उपासना क्रियते चेत् तस्याः कृपया कामनापूर्त्या सह जन्यानि फलानि लभ्यन्ते इति भावः ।

यथा आपस्तम्बसूत्रम् – तद्यथा आम्रे फलार्थे निर्मिते ।

छायागन्धे अनूत्पद्येते । एवं धर्मे चर्यमाणे अर्थाद्याः अनूत्पद्यन्ते ।

(लौकिकन्यायसाहस्रीतः सा. ४)

"https://sa.wikiquote.org/w/index.php?title=फलवत्सहकारन्यायः&oldid=10307" इत्यस्माद् प्रतिप्राप्तम्