पद्मपत्रस्थिततोयन्यायः

विकिसूक्तिः तः

पद्मपत्रस्थितः तोयबिन्दुः यथा अलिप्तो भवति तथा अलिप्तभावेन जीवतः विषये अयं न्यायः प्रवर्तते । तथैव अनेन न्यायेन अपरे अपि अंशाः सूचिताः भवन्ति यथा –

1. सर्वा अपि सृष्टिः नश्वरा क्षणभङ्गुरा च । 2. यथा जलबन्दुः पद्मपत्रोपरि स्थित्वा क्षणं यावत् मौक्तिकमिव राजते जीवने तथा महतां क्षणकालस्य सङ्गेन महत् फलमपि लभ्यते । 3. पद्मपत्रस्य जलकणस्यच संबन्धः अस्थिरः भवति । पत्रात् पतितस्य जलबिन्दोः नामापि न ज्ञायते ।

स्थिथप्रज्ञः जगति पद्पत्रस्थितजलकण इव अलिप्तो भवति ।

यथा- १) पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।

महाजनस्य संपर्कः कस्य नोन्नतिकारकः ॥ पञ्चतन्त्रे ३-५९

२ मुक्ताकरतया तदेव नलिनीपत्रस्थितं राजते । भर्तृहरि १-५८

3) लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ भगवद्गीता ५-१० (सा. ८०७)