पाषाणेष्टकान्यायः

विकिसूक्तिः तः

पाषाणखण्डो वा इष्टका वा भवतु द्वे अपि कठिने एव भवतः । परन्तु द्वयोः तुलना कर्तव्या चेत् पाषाणखण्ड एव अधिकं कठिनः (कठिनतरः) इति भव्यते । एवं विशिष्टप्रसङ्गे तुल्ययोः द्वयोर्मध्ये पुनश्च भेदः दर्शनीयश्चेत् अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=पाषाणेष्टकान्यायः&oldid=10400" इत्यस्माद् प्रतिप्राप्तम्