पिण्डं हित्वा करं लेढीति न्यायः

विकिसूक्तिः तः

यदि कश्चन अन्नपिण्डं परित्याज्य यत्र किञ्चन अन्नं लग्नं स्यात् तादृशं हस्तमेव लेढि (हस्तस्य लेहनं करोति) चेत् कियत् व्यर्थं हास्यास्पदं च स्यात् । एवमेव मनुष्यः महान्तम् आनन्दं हित्वा क्षुद्रम् आनन्दं प्राप्य आत्मनि समहितो भवति चेत् जीवनमेव व्यर्थं भवेदिति भावः ।