पिपीलिकान्यायः अथवा पिपीलिकागतिन्यायः

विकिसूक्तिः तः

पिपीलिकया साक्षादेव वृक्षोपरि वर्तमानानां फलानाम् आस्वादः प्राप्तुम् अशक्यः । महता प्रयत्नेन फलं प्राप्य रसस्वादं सा प्राप्नोति । एवं ब्रह्मानन्दं साक्षात् प्राप्तुम् असमर्थं अज्ञः श्रुतिस्मृत्यादिषु कथितं कर्माचरणादिकम् अनुसृत्य स्वस्य अन्तः करणं शुद्धं कृत्वा क्रमेण ब्रह्मानन्दम् अवाप्तु शक्नोति । एवं पिपीलिकागत्या महत् कार्यमपि क्रमेण साध्यत इति अनेन न्यायेन बोध्यते