प्रधानमल्लनिबर्हणन्यायः

विकिसूक्तिः तः

मल्लेषु यः अधिकबलवान् स्यात् तस्य पराजयेन अपरे बलिनः पराजिता एव स्युः इति अस्य आशयः । अद्वैते सांख्यसिद्धान्तानां खण्डनं प्रधानमल्लनिबर्हण न्यायेन कृतमिति आचार्याः स्वयं लिखन्ति ।

अतः प्रधानमल्लनिबर्हणान्यायेन अतिदिशति ।

एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः ॥ ब्रह्मसूत्रशाङ्करभाष्ये १-४-२८ (सा. २४४)