प्रपाणकरसन्यायः (पानकरसन्यायः)

विकिसूक्तिः तः

शर्करा, लवणं, शुण्ठी इत्यादीनां वस्तूनां संमिश्रणेन एकः आस्वाद्यः पानकरसो भवति । एवमेव लोके परस्परभिन्नानां संमिश्रणेन विलक्षणरुपं लभ्यते । तथैव विभाव – अनुभाव –संचारिभावानां मिश्रणेन विलक्षणरसाभिव्यक्तिः भवति ।

यथाः सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतः चर्व्यमाणं नैकप्राणो विभावादिजीविप्यवधिः पानकरस न्यायेन चर्व्यमाणः …. ब्रह्मास्वादमिवानुभावयन् अलौकिक चमत्कारकारी शृङ्गारादिकोरसः । काव्यप्रकाशचतुर्थोल्लासे पृ.९३