प्रपामेलनन्यायः

विकिसूक्तिः तः

क्वचित् एकमार्गे प्रवासं कुर्वन्तः तृषार्ताः भूत्वा प्रपासमीपं गच्छन्ति । यदा जलपानेन पिपासा निवृत्ता तदा पुनः स्वमार्गेण गच्छन्ति । एवं जगति जीवाः कञ्चित्कालं यावत् एकत्र समायान्ति पश्चात् च स्वमार्गेण गच्छन्ति स्वकर्मानुसारं पुनश्च जायन्ते । यथा जलप्रवाहे काष्ठम् अपरेण काष्ठेन संगतं भवति कञ्चित्कालं यावत् अयं संगमो भवति पुनश्च वियोगो भवत्येव ।

यथा काष्ठं च काष्ठं समेयातां महोदधौ ।

समेत्य च व्यपेयातां तद्वज्जीवसमागमः ॥ रामायण- अ. का. १०५-२६ सा. ८६८

"https://sa.wikiquote.org/w/index.php?title=प्रपामेलनन्यायः&oldid=10459" इत्यस्माद् प्रतिप्राप्तम्