प्रमदान्यायः

विकिसूक्तिः तः

सुन्दरपत्नीं प्राप्य एकस्य सुखम् आनन्दो वा भवति तादृशी मम नास्तीति अपरस्य दुःखम् असूया वा भवति । कस्याः अपि सपत्नी भवति चेत् दुःखं भवति । एवम् एकैव स्त्रीर बहूनां बहुविधानां भावनानाम् आश्रयः भवति इति अर्थः । (सा. ९२८)

"https://sa.wikiquote.org/w/index.php?title=प्रमदान्यायः&oldid=10470" इत्यस्माद् प्रतिप्राप्तम्