प्रसूतिवैराग्यन्यायः

विकिसूक्तिः तः

गर्भवत्याः प्रसूतिसमये वेदना भवति । अतः सा पत्या सह पुनः संगमं न करिष्यामि इति भावयेत् । तस्मिन् समये तस्याः मनसि प्रबलं वैराग्यं जायते । परन्तु अपत्योत्पत्त्यनन्तरं सर्वं सा विस्मरति । एवं कञ्चित्कालं यावत् वर्तमानस्य वैराग्यस्य विषये अयं न्यायः प्रवर्तते ।