प्रासादवासिन्यायः

विकिसूक्तिः तः

कश्चन गृहस्य प्रथमे अट्टे वसति क्वचित् अधः अपि आगच्छति । अधिककालं यावत् प्रासादभागे वसति इति कारणेन जनाः तं सर्वदा प्रासादवासिनमेव कथयन्ति । एवं केचन भूवासिनः, केचन अरण्यवासिनः भवन्ति खलु ।

एवमेव वर्णेषु केचन अनुनासिकाः, केचन मुखवचनाः केचन उभयवचनाश्च भवन्ति इति पातञ्जलमहाभाष्ये १-१-८ उपवर्णितम् अस्ति ।

"https://sa.wikiquote.org/w/index.php?title=प्रासादवासिन्यायः&oldid=10478" इत्यस्माद् प्रतिप्राप्तम्