प्लवङ्गगतिन्यायः

विकिसूक्तिः तः

मर्कटः वृक्षस्य एकस्मात् शाखाग्रात् अपरं शाखाग्रं प्रति कूर्दति । कूर्दनेन शनैः फलानि प्राप्नोति । जगति एवं केचन साधका भवन्ति ये मध्यमाधिकारिणो भूत्वा । शुद्धसंस्कारैः गुरुपदेशेन च कूर्दित्वा उन्नतमपि लक्ष्यं साधयन्ति इति अनेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=प्लवङ्गगतिन्यायः&oldid=10482" इत्यस्माद् प्रतिप्राप्तम्