बहुराजकपुरन्यायः

विकिसूक्तिः तः

एकस्य एव राज्यस्य यदि बहवो राजानो भवेयुः तदा तेषाम् एकता दुर्लभा एव । तथैव शरीरस्य इन्द्रियाणि परस्परं विरोधं प्राप्य एकं कार्यं न साधयन्ति । दर्शनसमये श्रवणं श्रवणसमये दर्शनम् इत्यादि विरुद्धकर्मसु इन्द्रियाणि स्वतन्त्ररुपेण प्रवृत्तानि चेत् एकं कार्यं न भवतीति भावः ।

यथा –प्रवर्त्यानामनन्तत्वाद् वैलक्षण्याच्च नैकता ।

नैकमत्यं बहुत्वे स्याद् बहुराजकदेशवत् ॥ अनुभूतिप्रकाशे १२-१३

"https://sa.wikiquote.org/w/index.php?title=बहुराजकपुरन्यायः&oldid=10570" इत्यस्माद् प्रतिप्राप्तम्