बादरायणसंबन्धन्यायः

विकिसूक्तिः तः

बदरीतरुसंबन्धेन द्वयोः संबन्धः जातः इति स्थापयितुं केनाचिद् वृथा प्रयत्नः कृतः कदाचित् । एवं कस्यापि दुर्बलकारणस्य आधारेण संबन्धः कल्पितः चेत् बादरायणसंबन्ध इति कथ्यते ।

कदाचित् द्वौ पुरुषौ एकत्र अमिलताम् । तदा एकेन भणितं – “तव गृहे बदरीतरुः अस्ति । मम शकटस्य चक्रं बदरीकाष्ठस्य वर्तते । एवम् आवयोः नेदीयान् संबन्ध विद्यते” । इति । अयमेव बादरायणसंबन्ध इति कथ्यते । वस्तुतः तयोः संबन्ध एव नास्ति । तथापि कथञ्चित् संबन्धः कल्पितः ।

यथा – अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।

बादरायणसंबन्धाद् यूयं यूयं वयं वयम् । । (लोकोक्तिः)

"https://sa.wikiquote.org/w/index.php?title=बादरायणसंबन्धन्यायः&oldid=10586" इत्यस्माद् प्रतिप्राप्तम्