बिडालविण्मोचनन्यायः

विकिसूक्तिः तः

मलविसर्जनात् पूर्वं मार्जालः भूतलस्य उपरि गर्तं खनति । तत्र मलविसर्जनात् अनन्तरं पुनः मृत्तिकां स्थापयित्वा गर्तं पूरयति । एवं कार्यस्य संपूर्त्यै कापि व्यवस्था कल्पिता कार्यसिद्ध्यनन्तरं च नाशिता इति बोध्यते अनेन न्यायेन ।

"https://sa.wikiquote.org/w/index.php?title=बिडालविण्मोचनन्यायः&oldid=10588" इत्यस्माद् प्रतिप्राप्तम्