भावार्थाधिकरणन्यायः
दिखावट
‘यजेत् स्वर्गकामः’ इति मीमांसाशास्त्रगते वाक्ये यजेत इत्यत्र आख्यातांशः क्रियावाचकः भवति । तस्यैव भावना इति नाम । शाब्दी भावना आर्थी भावना इति तस्याः प्रकारद्वयम् । तत्र त्रयः अंशाः भवन्ति किं केन कथं भावयेत् इति । किं भावयेत् इत्यत्र स्वर्गं भावयेत् इति उत्तरम् । केन भावयेत् इत्यत्र यज्ञेन इति उत्तरम् । कथं भावयेत् इत्यत्र इत्थंभावाकांक्षा भवति । एवं साधनस्य आकांक्षायां भावार्थाधिकरणन्यायेन समानाधिकरणं करणपदम् उपतिष्ठते । तेन यागेन स्वर्गस्य भावनां कुर्यात् इति अर्थो भवति ।
यथा – मीमांसान्यायप्रकाशे २-५-१