भूलिङ्गशकुनिन्यायः

विकिसूक्तिः तः

हिमालयेषु भूलिङ्गनामकः कश्चन पक्षिविशॆषः आसीत् । सः सर्वदा साहसं मा कुरु साहसं मा कुरु इति आक्रोशति स्म । स्वयं सः एकस्य सिंहस्य मुखे लग्नं मांसखण्डं स्वचुञ्चुना ग्रहीतुं प्रयत्नं कृतवान् इति । एवम् अन्येषां कृते उपदेशाः स्वयं तु सर्वभोगाः इति केचन भावयन्ति । स्वयम् उपदेशानां पालनं ये न कुर्वन्ति तेषां विषये अस्य प्रवृत्तिः भवति ।

यथा- न गाथा माथिनं शस्ति बहु चेदपि गायति ।

प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ॥ महाभारते (सा. ३४०)

"https://sa.wikiquote.org/w/index.php?title=भूलिङ्गशकुनिन्यायः&oldid=10652" इत्यस्माद् प्रतिप्राप्तम्