भ्रमरन्यायः
दिखावट
१. कण्टकयुक्तस्य पुष्पयुक्तस्य च वृक्षस्य कण्टकानि विहाय भृङ्गः पुष्पाणि एव सेवते । एवं सुजनः अन्येषां दोषान् त्यक्त्वा गुणान् एवं गृहणाति इति भावः ।
२. सामान्यतः भृङ्गः पुष्पस्य मकरन्दं चिनोति यदा पुष्पे मकरन्दम् अवशिष्टं नास्ति तदा सः पुष्पान्तरं प्रति गच्छति । एवं स्वार्थसिद्धिपर्यन्तं संबन्धं स्थापयित्वा अनन्तरं त्यजतः मनुजान् उद्दिश्य अस्य प्रयोगो भवति ।
३. अत्यन्तकठिनस्य काष्ठस्य उपर्यपि भृङ्गः महता प्रयत्नेन च्छिद्राणि कर्तुं शक्नोति परन्तु स्वतः प्रीतिपात्रं कमलं प्रविश्य तस्य पुटान्तरे बद्धः चेत् बहिरागन्तुं न शक्नोति ।
न्यायः अयं त्रिषु अपि एतेषु अर्थेषु प्रयुज्यते । (सा. ३२३, ३२४, ३२५)