मञ्जूषाखुन्यायः

विकिसूक्तिः तः

कदाचित् एकः मूषिकः किमपि खाद्यं लभ्येत इति आशया एकस्य सर्पग्राहकस्य कोशं प्रविष्टः । तत्र एकः सर्पः आसीत् सः झटिति एव मूषिकं गृहीत्वा भक्षितवान् । एवं महान् लाभः भवेत् इति आशया प्रवृत्तिः भवतिचेत् तत्र हानिः एव महती भवितुमर्हति इति भावः !

"https://sa.wikiquote.org/w/index.php?title=मञ्जूषाखुन्यायः&oldid=10670" इत्यस्माद् प्रतिप्राप्तम्