मधुररसभावित – आम्रबीजन्यायः

विकिसूक्तिः तः

सुक्षेत्रे मधुररसयुक्तम् आम्र बीजम् उप्तं चेत् परम्परया फलानि अपि मधुररसयुक्तानि एव प्राप्यन्ते । एवं यथा उप्तं तथा फलितम् इति अनेन बोध्यते ।