मलिनदर्पणन्यायः

विकिसूक्तिः तः

दर्पणः स्वयमेव स्वच्छः भवति । परन्तु यदि उपरि धूलिः प्राप्ता तर्हि मलिन एव दृश्यते । एवं मनुष्यः स्वयम् उत्तमः सन् अपि दुष्टसंसर्गस्य कारणेन दुष्टः भवति । एवं गुणदोषाः संसर्गतः जायन्ते इति भावः । यथाः प्रायेण उत्तममध्यमाधमगुणाः संसर्गतः जायन्ते । भर्तृहरि – नीतिशतके ५८

"https://sa.wikiquote.org/w/index.php?title=मलिनदर्पणन्यायः&oldid=10697" इत्यस्माद् प्रतिप्राप्तम्