महावातगजन्यायः

विकिसूक्तिः तः

कश्चन झञ्झावातः जातः चेत् महागजः अपि दूरे उत्पात्येत् तर्हि क्षुद्रजन्तूनां का कथा ? एवं महताम् एव यत्र हानेः शक्यता अल्पसत्त्वानां कैमुतिकन्यायेन उपद्रवः अवश्यं भवति इति भावः । अयं कैमुतिकन्यायसदृशः न्यायः ।

"https://sa.wikiquote.org/w/index.php?title=महावातगजन्यायः&oldid=10705" इत्यस्माद् प्रतिप्राप्तम्