मारिष – शाकदानन्यायः

विकिसूक्तिः तः

एकः निर्धनः गृहस्थः स्वगृहम् आगतेभ्यः मारिषशाकं ददाति स्म । कालेन मृतः सः पुनः श्रीमतां गृहे जातः । तस्य पूर्वजन्मनः संस्कारः आसीत् । अतः अस्मिन्नपि जन्मनि मारिषशाकस्य दानम् आरब्धवान् । एवं दरिद्रावस्थायाम् आरब्धं दानम् ऎश्वर्ये अपि अनुवर्तितम् इति पूर्वजन्मसंस्काराः अस्माकं व्यवहारस्य कारणानि इति च भावः ।

"https://sa.wikiquote.org/w/index.php?title=मारिष_–_शाकदानन्यायः&oldid=10711" इत्यस्माद् प्रतिप्राप्तम्