मार्जारकवलन्यायः

विकिसूक्तिः तः

भोजनसमये यदा सर्वे पङ्क्तौ उपविश्य एकम् एकम् कवलं मुखे स्थापयन्ति तदा तत्रस्थः मार्जारः तेषां हस्तचालनं दृष्ट्वा अयं जनः मह्यं कवलं दद्यात् इति आशां धारयति । एवं स्वार्थी मनुष्यः सर्वम् अपि स्वानुकूलम् एव पश्यति इति भावः ।

यथा- अहो कामी स्वतां पश्यति । अभिज्ञानशाकुन्तले ६

"https://sa.wikiquote.org/w/index.php?title=मार्जारकवलन्यायः&oldid=10714" इत्यस्माद् प्रतिप्राप्तम्