माषराशिप्रविष्ट- मषीन्यायः

विकिसूक्तिः तः

माषराशिः अतीव कृष्णवर्णीया भवति । कस्यापि माषधान्यस्य उपरि मषी स्थापिता अनन्तरं च सः माषकणः राशौ क्षिप्तः चेत् अनन्तरं कस्य माषस्य उपरि मषी स्थापिता इति ज्ञातुमपि अशक्यं भवति । एवं समानधर्मीयाः परस्परम् संमिलिता भवन्ति इति भावः । यथा –शकारः  :- <poem>

भाव भाव बलीयसि खलु अन्धकारे माषराशिप्रविष्टा इव मषीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना । (मृच्छकटिके)