मुञ्जादिषीकोद्धरणन्यायः

विकिसूक्तिः तः

मुञ्जनामकस्य तृणविशॆषस्य मध्यभागे अतीव कोमलः कश्चन भागः भवति । तस्य नाम इषीका । मुञ्जनिष्कासनेन इषीकायाः ग्रहणं कर्तुं शक्यते । तथैव युक्त्या अन्वयव्यतिरेकाभ्यां च शरीरात् विभिन्नम् आत्मानं साधनसंपन्नाः साक्षात् कुर्वन्ति । तदा स्वयम् आत्मा ब्रह्म भवति ।

<poem> यथा मुञ्जात् इषीकैवम् आत्मा युक्त्या समुद्धृतः । शरीरत्रितयाद् धीरैः परब्रह्मैव जायते ॥ (पञ्चदशी १-४२)

यथा – अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छारीरात् प्रवृहेत् मुञ्जादिवेषीकां धैर्येण तं विद्यात् शुक्रममृतम् ॥ कठोपनिषदि ६-१७