मुण्डितशिरोनक्षत्रान्वेषणन्यायः

विकिसूक्तिः तः

शिरोमुण्डनानन्तरं शुभनक्षत्रस्य शोधनं व्यर्थमेव खलु । मुण्डनात् पूर्वं यदि शुभनक्षत्रम् अन्विष्यते तर्हि प्रयोजनं भवतीति तादृशस्य निष्प्रयोजनकर्मणः उल्लेखाय अस्य न्यायस्य प्रयोगः भवति ।