मृद्घटन्यायः

विकिसूक्तिः तः

मृदा निर्मितः घटः अनायासेन भेत्तुं शक्यः योजयितुं च अशक्यः । एवं दिर्जनैः कृता मैत्री सुखेन भेत्तुं शक्या सन्धातुं च अशक्या । सुजनैः च कृता मैत्री कनकघट इव भेत्तुम् अशक्या भिन्ना च पुनः सन्धातुं सुशक्ता इति भावः । <poem> मृद्घट इव सुखभेद्यो दुः सन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघट इव दुर्भेदः सुकरसन्धिश्च ॥ पञ्चतन्त्रे २-३८

"https://sa.wikiquote.org/w/index.php?title=मृद्घटन्यायः&oldid=10799" इत्यस्माद् प्रतिप्राप्तम्