यववराहन्यायः

विकिसूक्तिः तः

केषाञ्चन शब्दानां शिष्टभाषायां ग्रामीणभाषायां च भिन्नार्थाः भवन्ति । यव वराहशब्दौ उदाहरणरुपेण शास्त्रेषु दर्शितौ । यथाः यववराहादिकरणन्यायेन लोकप्रसिद्धिः शास्त्रीयप्रसिद्ध्या बाध्यते इत्याह । (आनन्दगिरिटीका – ब्रह्मसूत्रशाङ्करभाष्ये २-३-४५) जैमिनीयमीमांसादर्शने शास्त्रप्रसिद्धार्थ –प्रामाण्याधिकरणं किंवा आर्यम्लेच्छाधिकरणम् इति अधिकरणं विद्यते । कोलब्रूक महाशयेन मीमांसानिबन्धनामके ग्रन्थे कनिचन उदाहरणानि दत्तानि ।

शब्दः शिष्टभाषायाम् अर्थः म्लेच्छभाषायाम् अर्थः
यवः यवः प्रियङ्गुः
वराहः वराहः गौः
पीलुः वृक्षविशेषः गजः
वेतसः वृक्षविशेषः जम्बुफलम्


संस्कृतभाषायां तेलुगुभाषायां च ‘राजा’ इति शब्दस्य प्रयोगः क्रियते । तेलुगुभाषायां सः आदौ क्षत्रियवाचकः पश्चात् च जाति वाचकः अभवत् । मूलार्थः तथैव अस्ति तेन सह अन्यार्थः अपि जातः ।

"https://sa.wikiquote.org/w/index.php?title=यववराहन्यायः&oldid=10847" इत्यस्माद् प्रतिप्राप्तम्