रुमाक्षिप्तकाष्ठन्यायः

विकिसूक्तिः तः

रुमानामके लवणसमुद्रे क्षिप्तं काष्ठम् अपि लवणं भवति इति कथयन्ति जनाः । सङ्त्याः अयं महिमा यत् सङ्गतं वस्तु तदाकारं भजति । यथाः <poem> १. यथा रुमाया लवणाकरेषु मेरौ यथा वोज्ज्पलरुक्मभूमौ । यज्जायते तन्मयमेव तत् स्यात् तथा भवेद् वेदविदात्मतुष्टिः ॥ (तन्त्रवार्तिके पृष्ठे १३१) २. बहूनामेकत्र परिणामो दृष्टः । गवाश्वमहिषमातङ्गानां रुमाक्षिप्तानाम् एको लवणत्वजातीयलक्षणः परिणामः वर्ति –तैल – अनलानां च प्रदीप इति । (वाचस्पतिमिश्र तत्त्ववैशारद्यां ४-१४)