वाजिमन्दुरान्यायः

विकिसूक्तिः तः

मन्दुरानाम् अश्वशाला । मन्दुरा इत्यनेन शब्देन एव अश्वशाला इति अर्थः बोध्यते चेत् “वाजिमन्दुरा’ इति वाजिसहितस्य मन्दुराशब्दस्य प्रयोगः अनावश्यकः । क्वचित् पुनरुक्तिः सार्था भवति क्वचित् न । एतादृशाः पुनरुक्तिप्रयोगाः यथा –पर्वतोपत्यकान्यायः, मृगवागुरान्याय इत्यादयः ।

"https://sa.wikiquote.org/w/index.php?title=वाजिमन्दुरान्यायः&oldid=11086" इत्यस्माद् प्रतिप्राप्तम्