वृक्षपक्षिन्यायः

विकिसूक्तिः तः

पक्षिणां निवासः नाम वृक्षाग्राः खलु । तत्रैव ते नीडं कल्पयन्ति अण्डानि रक्षन्ति शिशून् अपि जनयन्ति । परन्तु भूमेः अपेक्षया अत्युन्नतभागे वसन्ति इति कारणेन भूचराणाम् अपेक्षया ते पक्षिणः श्रेष्ठाः इति तु नास्ति । एवं केवलवासस्थलस्य आधारेण कस्यापि श्रेष्ठत्वं न निश्चीयते इति भावः । (सा. ५२)

"https://sa.wikiquote.org/w/index.php?title=वृक्षपक्षिन्यायः&oldid=11117" इत्यस्माद् प्रतिप्राप्तम्