वृश्चिकचोरन्यायः
दिखावट
चौर्यार्थं गतः चोरः वृश्चिकेन दष्टः चेत् किं भवति ? सः उच्चैः आक्रोशति चेत् जनाः धावित्वा आगत्य तं ताडयन्ति । परन्तु वेदनाकारणेन तूष्णीं भवितुम् अपि न शक्यते । एवं कस्यचित् कर्मणः फलभोगसमये स्वकृतस्य अपराधस्य मुक्ता अभिव्यक्तिः तूष्णींभावः वा न शक्यते इति भावः ।