सांशयिकनिष्क – सांशयिककार्षापण- न्यायः

विकिसूक्तिः तः

निष्कं नाम अष्टाधिकैकशतस्वर्णभारयुतं नाणकम् । कार्षापणं नाम रजतस्य नाणकम् । प्रायः तस्य मूल्यम् एकरुप्यकमितं भवति । कार्षापणस्य अपेक्षया निष्कस्य प्राप्तिः श्रेयस्करी इति कारणेन अल्पमूल्यस्य अपि निश्चयेन प्राप्तिः सन्दिग्धायाः धिकमूल्यस्य वस्तुनः प्राप्तेः अपेक्षया योग्या इति भावः ।